|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.70. अध्यायः 070
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमाहात्म्यकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
जन्मनैव महाभागो ब्राह्मणो नाम जायते।
नमस्यः सर्वभूतानामतिथिः प्रश्रिताग्रभुक्॥ 13-70-1(84292)
सर्वेषां सुहृदस्तात ब्राह्मणाः सुमनोमुकाः।
`सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः।'
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः॥ 13-70-2(84293)
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः।
गीर्भिर्दारुणयुक्ताभिर्हन्युश्चैते ह्यपूजिताः॥ 13-70-3(84294)
अत्र गाथाः पुरा गीताः कीर्तयन्ति पुराविदः।
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत्॥ 13-70-4(84295)
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वायनं विधि।
गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम्॥ 13-70-5(84296)
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति।
प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ॥ 13-70-6(84297)
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता।
शौद्रं हि कुर्वतः कर्म ब्राह्मी श्रीरुपरुध्यते॥ 13-70-7(84298)
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी।
स्वाध्यायेनैव महात्म्यं विपुलं प्रतिपत्स्यथ॥ 13-70-8(84299)
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः।
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्मयाऽनुकल्पिताः 13-70-9(84300)
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया।
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ॥ 13-70-10(84301)
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन।
सर्वं वस्तपसा साध्यं ज्ञानेन नियमेन च॥ 13-70-11(84302)
`युष्मत्संमाननां प्रीतिं पावनैः क्षत्रिया भृशम्।'
अमुत्रेह समायान्ति वैश्यशूद्राधिकास्तथा॥ 13-70-12(84303)
अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्रवम्।
युष्मत्तेजोधृता लोकास्तद्रक्ष्यथ जगत्त्रयम्॥' 13-70-13(84304)
इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ।
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता॥ 13-70-14(84305)
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः।
दुरासदाश्च चण्डाश्च तपसा क्षिप्रकारिणः॥ 13-70-15(84306)
सन्त्येषां सिम्हसत्वाश्च व्याघ्रसत्वास्तथाऽपरे।
वराहमृगसत्वाश्च गजसत्वास्तथाऽपरे॥ 13-70-16(84307)
सर्पस्पर्शसमाः केचित्तथाऽन्ये मकरस्पृशः।
विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे॥ 13-70-17(84308)
सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे।
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर॥ 13-70-18(84309)
मेकला द्राविडा लाटाः पौण्ड्राः कान्वशिरास्तथा।
शौण्डिका दरदा दार्वाश्चोराः शबरबर्बराः॥ 13-70-19(84310)
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः।
वृषत्वमनुप्राप्ता ब्राह्मणानामदर्शनात्॥ 13-70-20(84311)
ब्राह्मणानां परिभवादसुराः सलिलेशयाः।
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः॥ 13-70-21(84312)
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः।
अवार्या सेतुना गङ्गा दुर्जया ब्राह्ममा भुवि॥ 13-70-22(84313)
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा।
ब्राह्मणा हि महात्मानो देवानामपि देवताः॥ 13-70-23(84314)
तान्पूजयस्व सततं दानेन परिचर्यया।
यदीच्छसि महीं भोक्तमिमां सागरमेखलाम्॥ 13-70-24(84315)
प्रतिग्रहेण तेजो हि विप्राणा शाम्यतेऽनघ।
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वया नृप॥ ॥ 13-70-25(84316)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ततितमोऽध्यायः॥ 70 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-70-1 जन्मनैव संस्काराद्यभावेऽपि ब्राह्मणो नमस्य एव। प्रश्रितं पक्वमन्नं तत्स्वाग्रे भोक्तुमर्हः प्रश्रिताग्रभुक्॥ 7-70-2 सुमनसां देवानां मुखमिव भूताः सुमनोमुखाः॥ 7-70-3 नोऽस्माकं द्विषतः शत्रून्। तैरपूजिता ब्राह्मणा हन्युरिति सम्बन्धः॥ 7-70-4 समादधत् समाधिं नियमं कृतवान्॥ 7-70-5 ब्रह्मा ब्राह्मणः। वः शोभनं श्रेयस्तेनैव॥ 7-70-6 प्रग्रहाः दमनक्षभा रज्ज्व इव॥ 7-70-7 शौद्रं कर्म सेवा॥ 7-70-8 श्रीश्चेत्यादेः श्रियमित्यादिरर्थः॥ 7-70-9 आहृवनीयस्थं देवतागणं प्रसूतीनां शिशुभ्योऽप्यग्रे भोज्यं येषां ते। ब्राह्म्या श्रिया विद्ययाऽनुकल्पिताः पात्रीभूताः॥ 7-70-15 चण्डत्वादिदोषवन्तोपि पूज्या एवेत्यर्थः॥ 7-70-17 कार्पासमृदवः केचिदिति थ. पाठः॥ 7-70-20 अदर्शनात् अननुग्रहात्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|